Sant Shri Asharamji Bapu

Sant Shri Asharamji Bapu is a Self-Realized Saint from India, who preaches the existence of One Supreme Conscious in every human being.

Search This Blog

संत श्री आशारामजी बापू

भारत के संत श्री आशारामजी बापू आत्मज्ञानी संत हैं, जो मानवमात्र मे एक सच्चिदानंद इश्वर के अस्तित्व का उपदेश देते है

श्री गुरू अष्टकम

 शरीरं सुरूपं तथा वा कलत्रं,

यशश्चारु चित्रं धनं मेरु तुल्यम् |

मनश्चेन लग्नं गुरोरघ्रिपद्मे,

ततः किं ततः किं ततः किं ततः किम् ||१||


 कलत्रं धनं पुत्र पौत्रादिसर्वं,

गृहो बान्धवाः सर्वमेतद्धि जातम् |

मनश्चेन लग्नं गुरोरघ्रिपद्मे,

ततः किं ततः किं ततः किं ततः किम् ||२||


षड़ंगादिवेदो मुखे शास्त्रविद्या,

कवित्वादि गद्यं सुपद्यं करोति |

मनश्चेन लग्नं गुरोरघ्रिपद्मे,

ततः किं ततः किं ततः किं ततः किम् ||३||


विदेशेषु मान्यः स्वदेशेषु धन्यः,

सदाचारवृत्तेषु मत्तो न चान्यः |

मनश्चेन लग्नं गुरोरघ्रिपद्मे,

ततः किं ततः किं ततः किं ततः किम् ||४||


क्षमामण्डले भूपभूपलबृब्दैः,

सदा सेवितं यस्य पादारविन्दम् |

मनश्चेन लग्नं गुरोरघ्रिपद्मे,

ततः किं ततः किं ततः किं ततः किम् ||५||


यशो मे गतं दिक्षु दानप्रतापात्,

जगद्वस्तु सर्वं करे यत्प्रसादात् |

मनश्चेन लग्नं गुरोरघ्रिपद्मे,

ततः किं ततः किं ततः किं ततः किम् ||६||


न भोगे न योगे न वा वाजिराजौ,

न कन्तामुखे नैव वित्तेषु चित्तम् |

मनश्चेन लग्नं गुरोरघ्रिपद्मे,

ततः किं ततः किं ततः किं ततः किम् ||७||


अरण्ये न वा स्वस्य गेहे न कार्ये,

न देहे मनो वर्तते मे त्वनर्ध्ये |

मनश्चेन लग्नं गुरोरघ्रिपद्मे,

ततः किं ततः किं ततः किं ततः किम् ||८||


गुरोरष्टकं यः पठेत्पुरायदेही,

यतिर्भूपतिर्ब्रह्मचारी च गेही |

लमेद्वाच्छिताथं पदं ब्रह्मसंज्ञं,

गुरोरुक्तवाक्ये मनो यस्य लग्नम् ||९||


श्रीमद आद्य शंकराचार्यविरचितम

Audio

No comments:

Post a Comment