वेदसार शिवस्तवः
पशुनां पतिं पाप नाशं परेशं
गजेन्द्रस्य कृत्तिं वसानं वरेण्यम ।
जटाजूट मध्ये स्फुरग्दाग्ङवारिम
महादेवमेकं स्मरामि स्मरारिम ॥1॥
महेशं सुरेशं सुरारार्तिनाशं
विभुं विश्वनाथं विभूत्यङभूषणम ।
विरूपाक्षामिन्द्वर्कवन्हित्रिनेत्रं
सदानन्मीहे प्रभुं पंचवक्त्रम ॥2॥
गिरीशं गणेशं गले नीलवर्णं
गवेन्द्राधिरूढं गुणातीतरूपम ।
भवं भास्वरं भस्मना भषिताङं
भवानीकलत्रं भजे पंचवक्त्रम ॥3॥
शिवांत शम्भो शशाङ्कार्थमौले
महेशान शूलिन जटाजूटधारिन ।
त्वमेको जगद्व्यापको विश्वरूप
प्रसीद प्रसीद प्रभो पूर्णरूपं ॥4॥
परात्मानमेकं जगद्वीजमाद्यं
निरीहं निराकारमोङ्कारवेद्यम ।
यतो जायते पाल्यते येन विश्वम
तमीशं भजे लीयते यत्र विश्वम ॥5॥
न भूमिर्नचापो न वद्विर्न वायुर्न
चाकाशमास्ते न तन्द्रा न निद्रा ।
न ग्रीश्मो न शीतं न देशों न देषो
न यस्यास्ति मुर्तिस्त्रिमूर्तिं तमीडे ॥6॥
अजं शश्वतं कारणं कारणानां
शिवं केवलं भास्कं भासकानाम ।
तुरीयं तमः पारमाद्यंतहीनं
प्रपद्ये परं पावनं द्वैतहीनम ॥7॥
नमस्ते नमस्ते विभो विश्वमुर्ते
नमस्ते नमस्ते चिदानन्दमूर्ते ।
नमस्ते नमस्ते तपोयोगम्य
नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥8॥
प्रभो शूलपाणे विभो विश्वनाथ
महादेव शम्भो महेश त्रिनेत्र ।
शिवांत शांत स्मरारे पुरारे
त्वदन्यो वरेण्यो न मान्यो न गणयः ॥9॥
No comments:
Post a Comment